पूर्वम्: ६।३।१०६
अनन्तरम्: ६।३।१०८
 
सूत्रम्
पथि च च्छन्दसि॥ ६।३।१०७
काशिका-वृत्तिः
पथि च च्छन्दसि ६।३।१०८

पथिशब्दे उत्तरपदे छन्दसि विषये कोः कवम् का इत्येतावादेशौ भवतो विभाषा। कवपथः, कापथः, कुपथः।
न्यासः
पथि च च्छन्दसि। , ६।३।१०७

बाल-मनोरमा
चौ , ६।३।१०७

इत्यकारलोपे प्र च् अस् इति स्थिते--चौ। अन्चुधातोरुकारान्तस्य लुप्तनकाराऽकारस्य चाविति सप्तम्यन्तम्। "ढ्रलोपे" इत्यतः "पूर्वस्य दीर्घोऽणः" इत्यनुवर्तते। तदाह--लुप्तेति। प्राच इति। यद्यपि "अचः" इत्यल्लोपस्य "चौ" इति दीर्घस्य चाऽभावेऽपि सवर्णदीर्घेण "प्राच" इति सिध्यति, तथापि "प्रतीचः" इत्याद्यर्थं सूत्रम्। प्राग्भ्यामिति। प्राच्-भ्याम् इति स्थिते "चोः कुः" इति कुत्वं, "क्विन्प्रत्ययस्य कुः" इति कुत्वस्याऽसिद्धत्वात्। इत्यादीति। प्राग्भिः। प्राचे। प्राचः २। प्राचोः २। प्राक्षु। प्रत्यङ्ङिति। प्रतिपूर्वादञ्चेः क्विन्, यण्, "अनिदिताम्" इति नलोपः, सुबुत्पत्तिः। "उगिदचा"मिति नुम्, हल्ङ्यादिना सुलोपः, चकारस्य संयोगान्तलोपः, नुमो नकारस्य "क्विन्प्रत्ययस्ये"ति कुत्वेन ङकार इति भावः। प्रत्यञ्चाविति। प्रत्यच्-औ इति स्थिते "उगिदचा"मिति नुमि तन्नकारस्य अनुस्वारे तस्य परसवर्णो ञकार इति भावः। एवं प्रत्यञ्चः। प्रत्यञ्चम्, प्रत्यञ्चौ।

ननु प्रति-अन्च् इति स्थिते अन्तरङ्गत्वाद्यणि कृते "अनिदिता"मिति नलोपे प्रत्यच् इत्यस्माच्छसि असर्वनामस्थानत्वात् "उगिदचा"मिति नुमभावे "अचः" इत्यकारलोपे "चौ" इति दीर्घो न भवति, पूर्वस्याऽणोभावात्, ततश्च प्रत्य्()च इति स्यादित्यत आह--अच इति लोपस्येत्यादि। "अचः" इति लोपेन यण्निमित्तस्याऽकारस्य विनाशोन्मुखत्वादिह यण्न भवति। ततश्च प्रति अच् अस् इति स्थिते "अचः" इत्यकारलोपे सति "चौ" इति इकारस्य दीर्घे "प्रतीच" इति रूपां निर्बाधम्। एतदर्थमेव "अचः" इति "चौ" इति चारब्धम्। "प्राचः पश्ये"त्यत्र अल्लोपदीर्घयोरभावेऽपि सवर्णदीर्घेणैव रूपसिद्धेः। भाष्ये तु "चौ" इत्यारम्भसामथ्र्यादेवात्र यण् नेति समाहितम्। न च "प्राचः पश्ये"त्यादौ सावकाशत्वमिति वाच्यं, सवर्णदीर्घेणैव निर्वाहात्। "वार्णादाङ्गं बलीयः" इति परिभाषया "अचः" इत्यल्लोपे सति सवर्णदीर्घाऽसिद्धेरित्यन्यत्र विस्तरः। अद्स् अञ्च् इति स्थिते इति। क्विनि उपपदसमासे सुब्लुकि च सति अदस् अञ्च् इति स्थिते "अनिदिताम्" इति नलोपे कृते अदस् अच् इति स्थिते सतीत्यर्थः।

तत्त्व-बोधिनी
चौ ३६९, ६।३।१०७

चौ। "चजोः"इति निर्देशाच्चवर्गग्रहणं न भवतीत्याह---लुप्ताकारनकारेञ्चताविति। अत्राऽकारलोपेन नकारलोपस्याक्षिप्तत्वात्तत्कथनं व्यर्थमेव, किंतु लुप्ताऽकारेऽञ्चातावित्येव सुवचमित्याहुः। "ढ्रलोपे"इति सूत्रादणो दीर्घ इत्यस्य चानुवर्तमादाह--अणो दीर्घः स्यादिति। प्राचः। प्राचेति। "प्रतीचः"इत्याद्यर्थमवश्यंस्वीकार्येऽतोलोपे कृतेऽनेन दीर्घो विधीयत इति भावः। प्राग्भ्यामिति। "चोः कुः"इति कुत्वं, न तु "क्विन्प्रत्ययस्ये"त्यनेन, तस्याऽसिद्धात्वात्।